गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥
Categoria: Traduções
Oṃ namo bhagavate vāsudevāya
ॐ नमो भगवते वासुदेवाय धन्वन्तरये अमृतकलशहस्ताय ।
सर्वामयविनाशनाय त्रैलोक्यनाथाय महाविष्णवे स्वाहा ॥
Sadāśivasamārambhām
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् ।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥
Sarasvati namastubhyam
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥
Yogena cittasya
योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन ।
योऽपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि ॥
Bhāgyasūktam
ॐ प्रा॒तर॒ग्निं प्रा॒तरिन्द्रग्ं॑ हवामहे प्रा॒तर्मि॒त्रा वरु॑णा प्रा॒तर॒श्विना᳚ ।
प्रा॒तर्भग्ं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तस्सोम॑मु॒त रु॒द्रग्ं हु॑वेम ॥१॥
Gaṇapati-Atharvaśīrṣa-Upaniṣat
ॐ भ॒द्रं कर्णे॑भिः श्रुणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः। स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑। स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः। स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥
Acyutānanda Govinda
अच्युतानन्द गोविन्द विष्णो नारायणामृत ।
रोगान्मे नाशयाशेषान् आशु धन्वन्तरे हरे ॥
Vāgarthāviva Saṃpṛktau
वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥
Durgāsūktam
ॐ ॥ जा॒तवे॑दसे सुनवाम॒ सोम॑ मरातीय॒तो निद॑हाति॒ वेदः॑ ।
स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः ॥
