Notas do Dhruvopākhyānam

१:११:१. मनोः कन्यान्वयः प्रोक्तः पुत्रवंशोऽधुनोच्यते । तत्राध्यायद्वयेनाह​ ध्रुवस्य चरितं महत् । मनोर्द्वौ पुत्रौ द्वे च कन्ये। तत्र कन्ययोर्वंश उक्तः । इदानीं पुत्रद्वयानुवादपूर्वकमुत्तानपादवंशमाह, प्रीयव्रतेत्यादिना ॥

१:११:२. तस्य सुरूचिः सुनीतिश्चेति द्वे भार्ये । तत्र सुरूच्याम् अभीष्टायां प्रेय​स्याम् उत्तमो नाम सुतोऽभूत् ॥

१:११:४. राजासनस्थितस्य पितुरङ्कम् उत्सङ्गमाश्रितं भ्रातरम् उत्तमं दृष्ट्वा, तमङ्कम् आरोढुं ध्रुवो मनोरथं चक्रे इत्यन्वयः ॥

१:११:५. सुरुच्याः प्रेयस्याः प्रत्यक्षं समक्षं तत्प्रणयभङ्ग​भयाद् ध्रुवं न अभ्यनन्दत् ॥

१:११:६. तं ध्रुवं पितुरङ्कारोहणोत्सुकं दृष्ट्वा तथा स्वपुत्रञ्च​ तदङ्का​रूढं दृष्ट्वा सुरूचिरब्रवीत् इत्यन्वयः ॥

१:११:७. सुरूच्या दुरूक्त्तिम् असहमानो ध्रुवः स्त्रीजितं पितरं विहाय मातुः समीपं गत्वा दुःखितायास्तस्या अनुमत्या पुरान्निर्गत्य सप्तर्षीणाम् उपदेशेन मधुवने भगवन्तम् आराध्य​ पदं प्राप्त इति क्रमेण कथयिष्यन् सुरूच्या गर्वोक्त्तिमाह, क्रियते किमिति चतुर्भिः ॥

१:११:८. अविवेको मन्दमतिः ॥

१:११:९. एतद् राजासनं सर्वभूभृतां संश्रयस्य चक्रवर्तिनः केतनं स्थानं मत्पुत्रस्यैव योग्यं न हि राजपुत्रतामात्रलभ्यम् एतत् किन्तु मद्गर्भसम्भवसौभाग्यलभ्यम् ॥

१:११:१०. अतस्तव अयमुच्चैः उत्कृष्टैश्वर्य्यमनोरथो वृथैव, इत्यतिगर्वोक्तिः ॥

१:११:१३. यस्ते अपराध्य​ति अपराधं करोति, स तव पितरमेव अवजानाति । स चैवम्भूतः कः इत्यर्थः ॥

१:११:१५. तस्मिन् सुरूच्या वचसि कथिते सति श्वासेन अत्युष्णेन क्षामे म्लाने ईक्षणे नेत्रे यस्याः ॥

१:११:१७. उद्वेगः क्षोभः ॥

१:११:१८. एतन्मत्वा अवबुध्य शाम्य उपशमं भज ॥

१:११:१९. सुरुच्यां नृपः सुरूचिः अतिप्रीतिमान् । मद्विधा मादृशी तु केवलं भार्य्यति प्रोच्यते ॥

१:११:२१. यस्य यावदेव प्राप्तं स तेन तुष्यति ॥

१:११:२३. मैत्रो मित्रधर्मा । प्रवणाः निम्नदेशाभिमुख्यः सत्यः पात्रं सगुणं नरम् ॥

१:११:२४. अम्ब ! हे मातः ! मम प्रशमाय नोद्वेगस्त्तात कर्त्त​व्य इत्यादि सप्त​श्लॊकीरूपं यद् वचः प्राह ब्रवीषि, तद् भिन्ने भाण्डे पय इव मम हृदये न तिष्ठति ॥

१:११:२६. वृद्धस्य वृद्धिं प्राप्तस्यापि ॥

१:११:२८. किन्तु स्वकर्मणा प्राप्तुमेव​ इच्छामि ॥

१:११:३०. पूर्वागतान् स्वानुग्रहाय ततः पूर्वमेव तत्रागतान् कृष्णाजिनम् उत्तरीयमुपरि आस्तरणं येषां तेषु विष्टरेषु कुशासनेषु उपविष्टान् ॥

१:११:३२. निर्वेदात् दुःखात् प्राप्तं जानीत इत्यर्थः ॥

१:११:३३. चत्वारः पञ्च वा अव्दा यस्य, स चासौ सम्भूतश्च सम्यग्भूतः सौकुमार्येण जातः । अल्पवयाः कोमलतरश्चेत्यर्थः ॥

१:११:३५. चिन्त्यं कुटुम्बादिविषयं भवतः किञ्चिन्नास्ति, यतः पिता ध्रियते जीवति । स च भूपतिः ॥

१:११:३७. अक्षमा मानभङ्गासहनम् ॥

१:११:३८. क्षत्रियदायाद ! क्षत्रियपुत्र ॥

१:११:३९-४०. विवक्षुः किञ्चिद् वक्तुमिच्छुः ॥

१:११:४१. एतत् साहाय्यं क्रियताम् । साहाय्यप्राकरमेवाह सम्यक् कथ्यतामिति ॥

१:११:४८. मनसा यद् यदिच्छति, सत्यलोकादि तदपि प्राप्नोति । त्रैलोक्यान्तर्गतमुत्तमं प्राप्नोतीति किमु वक्तव्यम् ॥

१:११:४९-५१. कृष्णाराधनमेवैकं पुंसां सर्वफलप्रदम् । सर्वैरप्यवमेवोक्त्ते तदुपायं बुभुत्सते । आराध्यः कथित इति द्वाभ्याम् ॥

१:११:५२. ब्राह्यार्थानित्यादिना अष्टाङ्गयोगसाध्यचित्तसमाधानपूर्वकं मन्त्रजपम् उपदिशन्ति । तत्र प्रथमं ब्राह्यार्थान् चितं त्याजयेत् इति त्यागानुकूलप्राथमिकप्रयत्नविधानेन​ यथार्हं यमनियमासनप्राणायामपूर्वकः प्रत्याहार उक्तः । तस्मिन्नेव निश्चलं कुर्वीतेति धारणोक्ता ॥

१:११:५३. एवमनेन प्रकारेण एकाग्रचित्तेन इति पूर्वोक्तषडङ्गसाध्यं ध्यानमुक्तम् । तथा च वक्ष्यति “तद्रूप प्रत्ययैवैका सन्ततिश्चान्यनिस्पृहा । तद्ध्यानं प्रथमैरङ्गौः षड्भिर्निष्पाद्यते नृप ।” इति तन्म​येनेति समाधिरुक्तेः । धृतात्मनेति पुनर्लयविक्षेपप्राप्तौ तत्परिहाराय चित्तस्थैर्य्ये प्रयत्नः उक्तः तदुक्तं गीतासु “यतो यतो निःसरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ।” इति ॥

१:११:५४. हिरण्यगर्भो ब्रह्मा, पुरुषो विष्णुः प्रधीयते प्रक्षीप्य​ते प्रकृतौ विश्वमनेनेति प्रलयहेतुः शिवः प्रधानसंज्ञः अव्यक्तस्तेषां त्रयाणां नियन्ता त्रिगुणमायाशक्तिकारणात्मा । पाठान्तरे व्यक्तं विश्वम् । एतानि रूपाणि सन्ति यस्य ​तस्मै । एवमौपाधिकेषु रूपेषु सत्स्वपि शुद्धज्ञानात्मकः स्वभावोऽप्रच्युत एवास्ति यस्य तस्मै । ओंकारप्रतिपाद्याय वासुदेवाय नम इति मन्त्रार्थः ॥

॥ इति श्रीधरस्वामिकृतायामात्मप्रकाशा​भिधायां विष्णुपुराणटीकायां प्रथमांशे एकादशोऽध्यायः ॥

१:१२:१-२. तस्मात् पुरोपवनाद् निर्जगाम ॥

१:१२:५. हरतीति हरिः । सर्वदुःखहारिणी यद्विषया मेधा स हरिमेधाः । नित्यमसि च प्रजामेधयोरिति सान्तत्वम् ॥

१:१२:६. मरीचिमुख्यैर्मरीचिप्रमुखैः । यथा उद्दिष्टम् उपदिष्टम् । अमन्यत दध्यौ ॥

१:१२:७. सर्वभावगतः सर्वभावेन विश्वरूपेण तच्चित्तत्वं गतः प्राप्तोऽभवत् ॥

१:१२:८. ततश्च तस्य भारमुद्वाढुंर्भूर्नाशक्नोदित्याह, मनस्यवस्थित इति त्रिभिः ॥

१:१२:९. वामेन पादेन स्थिते तस्मिन् अर्द्धेन अर्द्धं वामभागतो मेदिनी ननाम अवनताभूत् । दक्षिणेन पादेन स्थिते तस्मिन् क्षितेर्दितीयं दक्षिणमर्धं ननाम ॥

१:१२:१०. यदा च पादाङ्गुष्ठेन वसुधां मध्यतः सम्पीड्य आक्रम्य स्थितः । तदा समस्ता वसुधा चचाल ॥

१:१२:११. नद्यादयश्च क्षोभं प्राप्ताः ॥

१:१२:१२. ततो देवैरनेकधा विध्ने क्रियमाणेऽपि तत्समाधेरव्युत्थानलक्षणं मतिदार्ढ्यम् आह यामा नामेत्यादिना । एवं सर्वासु मायास्वित्यतः प्राक्तनेन ग्रन्थेन ॥

१:१२:१३. कूष्माण्डाः केचिदुपदेवाः ॥ १:१२:१४. सास्रा आश्रुमुखी सती ॥

१:१२:१५. शरीरस्य व्ययेन दारुणात् तीव्रादस्मात् तपोनिर्बन्धात् निवर्त्तस्व ॥

१:१२:१६. सपत्नीवचनात् क्रुद्धः सन् मां त्यक्तुं न अर्हसीत्यर्थः ॥

१:१२:२०. यतो मत्प्रीतिर्मत्तोषणं तव परो धर्मः, अतः कालः क्रीडनकानां ते इत्यादि मदुक्तं वयोऽवस्थानुरूपं क्रियाणां क्रमम् अनुवर्त्तस्व, मोहं दुराग्रहं मा अनुवर्त्तस्व । भाविमहद्दुःखहेतुत्वाद् अस्मादकालतपोनिर्बन्धलक्षणाद् अधर्माद् निवर्त्तस्व । मत्प्रीतिपरमम् इति पाठे मत्प्रीत्या परम उत्कृष्टो यो भवेत् तं वयोऽवस्थक्रियाक्रमयुक्तं धर्ममनुवर्त्तस्वेत्यर्थः ॥

१:१२:२२. वाष्पैरश्रुभिराविले क्लिन्ने विलोचने यस्यास्तां पश्यन्नपि उन्मीलितनेत्रोऽपि ॥

१:१२:२६. शिवाः, ज्वाला एव कवलं ग्रासस्तत्सहितैर्मुखैर्नादञ्चक्रुः ॥

१:१२:२८-३०. सिंहोष्ट्रमकराणामिव आननानि येषां ते ॥

१:१२:३१. तस्माद् यः पराभवः स्वपदापहारलक्षणस्तस्मात् शङ्किताः सन्तः ॥

१:१२:३४. कलालेशैः एध्याभिः स्वकलाभिः ॥

१:१२:३७. हृदयात् शल्यं पराभवाशङ्कालक्षणम् उद्धर उत्पाटय ॥

१:१२:३८. काममपेक्षितमर्थम् ॥

१:१२:३९. विगतज्वराः निःशङ्काः ॥

१:१२:४०. स्वानि धिष्णानि स्वस्थानानि ॥

१:१२:४३. यद् यस्मदाहितं समाहितम् ॥

१:१२:४५. चतुर्षु भुजेषु शङ्खादिधरं कक्षादौ च वरासिधरं श्रेष्ठखड्गधरम् । शिरसा महीं जगाम दण्डवत् प्रणतो बभूव ॥

१:१२:४६. स्तवाय मानसं चक्रे ॥

१:१२:४७. ततश्च ब्रह्मादिभिरविज्ञातगतेरस्य स्तुतौ विषये बालोऽहं किं वदामि । केन वा सर्वात्मत्वेन केवलत्वेनोक्तेन वास्य स्तुतिर्भवेदिति व्याकुलमतिस्तमेव शरणं ययौ ॥

१:१२:५१. सर्ववेदमयस्य शंखस्य प्रान्तेन वेदान्तभागेन परमेश्वरतत्त्वप्रतिपादकेन पस्पर्श “ब्रह्ममयेन कम्बुना पस्पर्श” इति शुक्रोक्तेः ॥

१:१२:५३. प्रसन्नवदनः प्राप्तज्ञानत्वात् “शोभा तस्य मुखे य एवं वेदेति । ब्रह्मविद इव ते सौम्य मुखमाभाति” इति श्रुतेः । भूतानां धातारमच्युतं तुष्टाव सर्वाश्रयभूत-स्थिरस्थानार्थितत्त्वात् ॥

१:१२:५४. भूम्यादीनि स्थूलसूक्ष्मरूपाणि भूतानि दश, मन इत्येका दशेन्द्रियोपलक्षणम् । बुद्धिर्महत्तत्त्वं, भूतादिरहङ्कारः, आदिप्रकृतिरित्येवं चतुर्विंशतिस्तत्त्वानि यस्य रूपं तं नतोऽस्मि ॥

१:१२:५५. प्रधानात् परतः परः प्रथमान्तात् तसिः । गुणाशिने गुणसाक्षिणे ॥

१:१२:५७. बृहत्त्वात् सर्वगतत्वात् कारणतया संवर्द्धिकत्वात् । विकारवन्नविभाति अविकारवत् । योगिचिन्त्यञ्च तदविकारवच्च । हे योगिचिन्त्य इति पृथक् पदं वा ॥

१:१२:५८. बृहत्वं बृंहणत्वज्च विवृण्वन् पुरुषसूक्तार्थरूपेण स्तौति । सहस्रशीर्षेत्यादिना । सहस्रमित्यपरिमितं नाम । अपरिमितानि शीर्षाणि यस्य विश्वरूपस्य सः । सहस्रंक्षीणि यस्य सः । सहस्रं पादा यस्य । स भुवः स्पर्शद् भूशब्देन ब्रह्माण्डं तस्य स्पर्शादिति ल्यब्लोपे पञ्चमी । दशाङ्गुलमित्याधिक्यमात्रपरम् अतोऽयमर्थः । सावरणं ब्रह्माण्डं स्पृष्ट्वा अभिव्याप्य तदतिक्रम्य निरवधिर्भवान् स्थित इति ॥

१:१२:५९. स्पर्शाश्चात्र न संयोगमात्रं, किन्तु कारणत्वेन तद् व्याप्तिः । अतः कार्यात् कारणस्याधिक्यं युक्तमिति पूर्वोक्त समर्थयते यद् भूतमित्यादिना । विराट् ब्रह्माण्डं, स्वराट् ब्रह्मा, सम्राट् मनुः । अधिपुरुषश्च एषामधिष्ठाता महापुरुषः ॥

१:१२:६०. यस्मादेते तत्तो जातास्तस्मात् स भवान् भुवोऽधश्च तिर्यक् चोर्ध्वञ्च परितश्च अतिरिक्तॊऽभूत् । भूशब्दोक्तस्य विश्वस्य तत्कार्यत्वेन तदन्तवर्त्तित्वात् । ततो न्यूनत्वमाह त्वत्तो विश्वमिति । भूतञ्च भविष्यच्च भूत-भविष्यती ॥

१:१२:६१. त्वद्रूपधारिणश्चेति । चकारोऽप्यर्थे । तवैव कारणभूतस्य रूपं सद्रूपं धारयति न तु पृथक्सत्वं यस्य तत् त्वद्रूपधारि ब्रह्माण्डं तस्याप्यन्तः सर्वमिदं जगदन्तर्भूतं किं पुनर्वक्तव्यं तवान्तर्भूतमिति । सर्वभूतमिति पाठे सर्वाणि भूतानि यास्मिन् तज्जगद्ब्रह्माण्डस्यान्तस्तिष्ठतीत्यर्थः । सर्वभूतादिति पाठे सर्वात्मकत्वद्रूपधारिणो ब्रह्माण्डस्यान्तरिदं जगत् तिष्ठतीत्यर्थः । किञ्च त्वत्तो यज्ञः सर्वेषां चरुपुरोडाशानां हुतं हवनमस्मिन् इति सर्वहुतः नानाद्रव्यक इत्यर्थः यज्ञादिति पाठे सर्वे हूयन्तेऽस्मिन् इति सर्वहुतं तस्माद् यज्ञादिति ल्यब्लोपे पञ्चम्यौ सर्वहुतं यज्ञमुद्दिश्य तत्साधनं पृषदाज्यादि त्वत्तो जातिमित्यर्थः पृषदाज्यम् दधिमिश्रं धृतं पशुर्द्विधा ग्राम्यारण्यभेदेन ॥

१:१२:६२. छन्दांसि गायत्र्यादीनि । त्वत्तोऽश्वा उभयतो दन्ता एकदन्ताश्च ॥

१:१२:६६-६७. तानेवाह गाव इति ॥

१:१२:६८. त्वत्तो जातं विश्वं त्वत्तो भिन्नं न भवतीति दृष्टान्तेनाह यथा त्वचः पत्राद् वा अन्या पृथग्भूता कदली न दृश्यते । एवं त्वक्पत्रस्थानीयात् त्वतौ विश्वस्य नान्यत्वम् ॥

१:१२:६९. यतस्त्वत्स्थायि त्वय्येव स्थातुं शीलमस्येति त्वत्स्थायि तथा भूतमेव सन् घटः सन् पट इत्येवं दृश्यते न तु पृथक् । भो ईश्वर सर्वजीवनियामक पाठान्तरेष्वपि अयमेवार्थः । ईश्वरत्वमेव जीवेश्वरवैलक्षण्येन दर्शयन् आह, ह्लादिनीति ह्लादिनी आह्लादकरी सन्धिनी सन्तता, संवित् विद्याशक्तिः । एका मुख्या अव्यभिचारिणी स्वरूपभूतेति यावत् । सा सर्वसंस्थितौ सर्वस्य सम्यक् स्थितिर्यस्मिन् तस्मिन् सर्वाधिष्ठानभूते त्वय्येव न तु जीवेषु । या गुणमयी त्रिविधा संवित् सा त्वयि नास्ति ॥

१:१२:७०. तानेवाह ह्लादतापकरी मिश्रेति । ह्लादकरी मनसः प्रसादात् सात्त्विकी । तापकरी विषयवियोगादिषु दुः खकरी तामसी । तदुभयमिश्रा च विषयजन्या राजसी । तत्र हेतुः सत्त्वादिगुणैर्वर्जिते । तदुक्तं सर्वज्ञसूक्तो ह्लादिन्या संविदाश्लिष्टः सच्चिदानन्द ईश्वरः । स्वाविद्यासंवृतो जीवः संक्लेशनिकराकरः” इति । ऐश्वर्यमेव विभूतिभिः प्रपञ्चयति । पृथग्भूतैकभूताय, कार्यात्मना पृथग्रूपाय । कारणात्मना चैकरूपाय । भूतभूताय भूतसूक्ष्मरूपाय ॥

१:१२:७१. प्रभूतानि भूतानि महाभूतानि तद्रूपाय भूतात्मने चराचरप्राणिरूपाय च तुभ्यं नमः । किञ्च पुर्वोक्त्तव्यक्त्तप्रधानादिविभूतिरुपतयान्तः करणैर्योगिभिर् भवान् विभाव्यते चिन्त्यते ॥

१:१२:७२. तथा पुरुषेषु क्षेत्रज्ञेषु उपाध्याभमानेन क्षीणमाणेष्वपि भवान् परमात्मा अक्षयो विभाव्यते । किञ्च सर्वस्मिन् देवादिशरीरे सर्वभूतः । तत्र केवलक्षेत्रज्ञरूपस्त्वं सर्वश्च त्वं क्षेत्ररूपश्च त्वमेव। क्षेत्रक्षेत्रज्ञरूपत्वमेकस्य विरूद्धमित्याशङ्क्याह-सर्वस्वरूपधृक् । चेतनाचेतनस्वरूपं त्वमेव धत्से । “सर्वं खल्विदं ब्रह्म” इति श्रुतेरित्यर्थः ॥

१:१२:७३. तदेवोपपादयति सर्वं त्वत्तः । त्वत्तो हि सर्वं जायते । अतः सर्वस्वरूपधृक् त्वमेव । ननु प्रथमं कार्यं हिरण्यगर्भादिकं मत्तो जायताम् । तत्र पुत्रादिद्वारा यदन्यज्जायते तत् कथं मत्तो जातं स्यात्, तत्राह ततश्च त्वम्। त्वत्तो जाताद् हिरण्यगर्भादेस्तत् पुत्रादिरूपेण त्वमेव जायसे । अतस्तद्द्वारा जायमानं सर्वं त्वत्त एवेत्यर्थः । स्तुतिं निगमयति, एवं सर्वात्मने नमॊऽस्त्विति । स्वमनोरथं सूचयन्नाह, सर्वात्मकोऽसीति ॥

१:१२:७४. एतदेव विवृण्वनाह, सर्वात्मन! सर्वंषामात्मभूत । अन्तर्यामिन् । सर्वेषां सत्त्वानां समुद्भवो यस्मात् सर्वप्राणिजनक ॥

१:१२:७५. सर्वभूतश्च भवान् अतः सर्वेषां सत्त्वानां मनोरथं वेत्ति । न केवलं मदीयमेवेत्यर्थः । यो मे मनोरथः त्वत्स्तुतिविषयः स स्तुतिशक्तिदानेन त्वया सफलः कृतः । अतो मया यदर्थं तपस्तप्तं, तदपि सफलं जातमेवेति विज्ञाते यतस्त्वं दृष्टोऽसि ॥

१:१२:७६. यत् त्वया आकांक्षितं तपसः फलं तत् त्वया प्राप्तमेव । किं तत् प्रार्थनेन? यतो मद्दर्शनं विफलं न जायते ॥

१:१२:७७. अपि च तस्मात् प्राप्तादान्यदपि वरं मत्सालोक्यादिकं यथेच्छं वृणीष्वेत्यर्थः ॥

१:१२:७८. ध्रुवस्त्वाह-भगवन्! ममाद्यापि त्वत्सालोक्याद्यपेक्षा नास्ति किन्तु अन्यदेवेप्सितमस्ति, तच्च भवानन्तर्यामी जानात्येव ॥

१:१२:७९. तथापि दुर्विनीतेन मया हृदये यत् प्रार्थ्यते, तत् कथयिष्यामि । कथं भूतं नातिदुर्लभम् अनतिदुर्लभं सुलभमपि ॥

१:१२:८०. सुलभत्वमेवाह किञ्चेति ॥

१:१२:८१. ब्रह्मादिदुर्लभं तत्सालोक्यादि विहाय त्रैलोक्यान्तर्वर्त्तिस्थानं स्वप्रार्थ्यं सहेतुकमाह नैतदिति द्वाभ्याम् ॥

१:१२:८३. भगवद्वाक्यन्तु एवंविधं स्थानं पूर्वजन्मतपसैव त्वया प्राप्तुं शक्यम् । अन्तरायेण तु केनचित् त्वं राजपुत्रोऽसि । तत्राप्ययं तवापरितोषो मत्तोषणाप्रभावादेवाभूत् । अतः किञ्चित् कालं राज्यभोगान् भुक्त्वा ततश्चाकल्पान्तं ध्रुवे पदे जनन्या सह स्थित्वा पश्चाद् मोक्षं प्राप्स्यसीति तदाह, यत् त्वयेति पुण्यं भविष्यतीत्यन्तेन ॥

१:१२:८८-९०. स्वायम्भुवस्य कुले यद् जन्म अन्येषां तापसानां तद् वरं श्रेष्ठमेव स्थानम् । येन त्वया पुर्वमहं परितोषितः । तस्य तव भक्तस्यैतदवरं तुच्छ जातम् ॥

१:१२:९१-९३. सोमपुत्राद् बुधात् । सितः शुक्रः । अर्कतनयः शनैश्चरः ॥

१:१२:९४-९६. सुनीतिरपि ते मातेति । त्वन्मातृत्वादेव तत्र निवत्स्यतीत्यर्थः ॥

१:१२:९७. कचद्वारा ज्ञेयमाचार्यत्वम् ॥

१:१२:९९. सूनृता तत् पुण्योपचये यत्नं कुरुष्वेत्यादिहितसत्यवादिनी । “घर्मस्य कन्वा सुश्रोणी सूनृता नाम विश्रुता । उत्पन्ना वाजिमेधेन ध्रुवस्य जननी श्रुता” इति हरिवंशोक्तेः । पूर्वनाम वा ॥

१:१२:१००. त्रैलोक्याश्रयतां प्राप्तं यत् परं विष्णुपदाख्यं स्थानम् । स्थिरायति स्थिरा नित्या मुक्तिरूपा आयतिरुत्तरकाले भावि फलं यस्मिस्तथाभूतं स्थानं निवासं प्राप । “आयतिस्तु स्त्रियां दैवे प्रभावागामिकालयो” इत्यभिधानात्। प्राप्तेति वा पाठः । कथं प्राप्ता वरं श्रेष्ठं विष्णुभक्तं ध्रुवं कुक्षिविवरे गर्भे कृत्वा या वरं स्थानं प्राप्ता, तस्या महिमानं वर्णयितुं कः शक्त इत्यर्थः ॥

॥ इति श्रीधरस्वामिकृतायां स्वात्मप्रकाशाभिधायां विष्णुपुराणटीकायां प्रथमांशे द्वादशोऽध्यायः ॥