ओं यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः । छन्दो॒भ्योऽध्य॒मृता᳚थ्सम्ब॒भूव॑ । स मेन्द्रो॑ मे॒धया᳚ स्पृणोतु । अ॒मृत॑स्य देव॒धार॑णो भूयासम् । शरी॑रं मे॒ विच॑र्षणम् । जि॒ह्वा मे॒ मधु॑मत्तमा । कर्णा᳚भ्यां॒ भूरि॒विश्रु॑वम् । ब्रह्म॑णः को॒शो॑ऽसि मे॒धया पि॑हितः । श्रु॒तं मे॑ गोपाय ॥
