Composto por: Pujya Swami Dayananda Saraswati (https://avrpt.com/compositions-of-swami-dayananda.htm)
रामं भजे श्यामं मनसा
रामं भजे श्यामं वचसा
सर्ववेदसारभूतम्
सर्वभूतहेतुनाथम्
विभीषणाञ्जनेयपूजितचरणम्
वसिष्ठादिमुनिगणवेदितहृदयम्
वशीकृतमायाकारितवेषम्
एतं पुरेशं सर्वेशम्
नीलमेघश्यामलं नित्यधर्मचारिणम्
दण्डिनं कोदण्डिनं दुराचारखण्डनम्
जन्ममृत्युजराव्याधिदुःखदोषभवहरम्
