Composto por: Pujya Swami Dayananda Saraswati (https://avrpt.com/compositions-of-swami-dayananda.htm)
शङ्कराचार्यं भजेम
आदिशङ्कराचार्यं भजेम
शिवशङ्कररूपम् अरूपम्
अद्वयानन्दकरं यतिवरं गुरुवरम्
तोटकादिहृद्भावितचरणम्
विदिताखिलशास्त्रसुधाजलधिम्
अघटितमायाभव-अपहारम्
हारं श्रुतिसारं वारं वारम्
कुशाग्रबुद्धिविशेषविज्ञातम्
ईशकेनादिभाष्यविख्यातम्
विज्ञातपरात्मनिजस्वरूपम्
ज्ञेयं ध्येयं गेयं वयम्
